Monday, March 2, 2009

संकटनाशनं श्री गणेशस्तोत्रम् ।

श्री नारद उवाचः

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन् नित्यं आयुःकामार्थसिध्धये ।। १ ।।

प्रथम वक्रतुंडं च एकदन्तं द्वितियकम् ।
तृतिय कृष्णपिगाक्षं गजवकत्रं चतुर्थकम् ।। २ ।।

लंबोदरं पंचम् च षष्ठं विकटमेव च ।
सप्तमं विध्नराजं च धूम्रवर्ण तथाष्टमम् ।। ३ ।।

नवम् भालचंद्रं च दशं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ।। ४ ।।

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिर्भवेत् ध्रुवम् ।। ५ ।।

विद्यार्थी लभते लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।। ६ ।।

जपेत् गनपतिस्तोत्रम् षडभिमार्से फलं लभेत ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ।। ७ ।।

अष्टेभ्यो ब्राह्मणेभ्यश्र्च लिखित्वा यः समर्पयेत ।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ।। ८ ।।


।। इति श्री नारदपुराणे संकटनाशनं श्री गणेशस्तोत्रं समाप्तम् ।।

ऊँ श्रीमन्महागणाधिपतये नमः
प्रार्थनापुर्वक नमस्कारं समर्पयामि ।